रघुवंशस्य द्वितीय: सर्ग:
|
र.व.-२.१ अथ प्रजानामधिप: प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् ।
वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच॥१॥
र.व.-२.२ तस्या: खुरन्यासपवित्रपांसुमपांसुलानां धुरि कीर्तनीया ।
मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मॄतिरन्वगच्छत् ॥२॥ र.व.-२.३ निवर्त्य राजा दयितां दयालुस्तां सौरभेयीं सुरभिर्यशोभि: ।
पयोधरीभूतचतु:समुदां जुगोप गोरुपधरामिवोर्वीम् ॥
र.व.-२.४ व्रताय तेनानुचरेण धेनोर्न्यषेधि शेषोऽप्यनुयायिवर्ग: ।
चान्यतस्तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनो: प्रसूति: ।।४॥ र.व.-२.५ आस्वादवध्दि: कवलैस्तृणानां कण्डूयनैर्दशनिवारणैश्च ।
अव्याहतै: स्वैरगतै: स तस्या: सम्राट् समाराधनतत्परोऽभूत् ॥५॥ र.व.-२.६ स्थित: स्थितमुच्चलित: प्रयातां निषेदुषीमासनबन्धधीर: ।
जलाभिलाषी जलमाददानां छायेव तां भूपतिरन्वगच्छत् ॥६॥ र.व.-२.७ स न्यस्तचिह्नामपि राजलक्ष्मीं तेजोविशेषानुमितां दधान: ।
आसिदनाविष्कृतदानराजिरन्तर्मदवस्थ इव द्विपेन्द्र:॥७॥
र.व.-२.८ लताप्रतानोद्ग्रथितै: स केशैरधिज्यधन्वा विचचार दावम् ।
रक्षापदेशान्मुनिहोमधेनोर्वन्यन्विनेष्यन्निव दुष्ट्सत्त्वान् ॥८॥
र.व.-२.९ विसृष्टपार्श्वानुचरस्य तस्य पार्श्वद्रुमा: पाशभृता समस्य ।
उदीरयामासुरिवोन्मदानामालोकशब्दं वयसां विरावै: ॥९॥
र.व.-२.१० मरुत्प्रयुक्तश्च् मरुत्सखाभं तमर्च्यमारादभिवर्तमानम् ।
अवाकिरन्बाललता: प्रसूनैराचरलाजैरिव पौरकन्या: ॥१०॥
र.व.-२.११ धनुर्भृतोऽप्यस्य दयार्द्र्भावमाख्यातमन्त: करणैर्विशङ्कै: ।
विलोकयन्त्यो वपुरापुरक्ष्णां प्रकामविस्तारफलं हरिण्य: ॥११॥
र.व.-२.१२ स किचकैर्मरुतपूर्णरन्ध्रै: कूजद्धिरपादितवन्शकृत्यम् ।
शुश्राव कुञ्जेषु यश: स्वमुच्चैरुद्रीयमानं वनेदेवताभि:॥१२॥
र.व.-२.१३ पुक्तस्तुषरैर्गिरिनिर्झराणामनोकहाकम्पितपुष्प्गन्धी ।
तमातपक्लन्तमनातपत्रमाचारपूतं पवन: सिषेवे ॥१३॥
र.व.-२.१४ शशाम वृष्ट्याऽपि बिना दवाग्निरासीद्विशेषा फलपुष्पवृध्दि: ।
ऊनं न सत्तेष्वधिको बबाधे तस्मिन्वनं गोप्तरि गाहमाने॥१४॥
र.व.-२.१५ सञ्चारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् ।
प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्व धेनुः ॥१५॥
र.व.-२.१६ तां देवतापित्रतिथिक्रियार्थामिन्वग्ययौ मध्यमलोकपाल: ।
बभौ च सा तेन सतां मतेन श्रद्धेव साक्षाद्विधिनोपपन्ना ॥१६॥ र.व.-२.१७ स पल्वलोत्तीर्णवराहयूथान्यावासवृक्षोन्मुखबर्हिणानि ।
ययौ मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन् ॥१७॥ र.व.-२.१८ आपीनभारोद्वहनप्रयत्नाद् गॄष्टिर्गुरुत्वाद्वपुषो नरेन्द्र: ।
उभवलञ्चक्रतुरञ्चिताभ्यां तपोवनवृत्तिपथं गताभ्याम् ॥१८॥
र.व.-२.१९ वसिष्ठधेनोरनुयायिनं तमावर्तमानं वनिता वनान्तात् ।
पपौनिमेषलसपक्ष्मपङ्कितरुपोषिताभ्यामिव लोचनाभ्याम् ॥१९॥
र.व.-२.२० पुरस्कृता वत्र्मर्नि पार्थिवेन प्रत्युद्र्ता पार्थिवधर्मपत्न्या ।
तदन्तरे सा विरराज धेनुर्दिनक्षपामध्यगतेव ॥२०।।
र.व.-२.२१ प्रद्क्षिणीकृत्य पयस्विनीं तां सुदक्षिणा साक्षतपात्रहस्ता ।
प्रणम्य चानर्च विशालमस्या: श्रृङ्गान्तरं द्वारर्मिवार्थसिद्धे: ।।२१॥ र.व.-२.२२ वत्सोत्सुकापि स्तिमिता सपर्यां प्रत्यग्रहीत् सेति ननन्दतुस्तौ ।
भक्त्योपप्अन्नेषु हि तद्विधानां प्रसादचिह्नानि पुर: फ़लानि ॥२२॥ र.व.-२.२३ गुरो: सदारस्य निपीड्य पौदा समाप्य सान्ध्यं च विधिं दिलीप: ।
दोहावसाने पुनरेव दोग्धीं भेजे भुभोच्छिन्नरिपुर्निषण्णाम् ॥२३॥
र.व.-२.२४ तामन्तिकन्यस्तबलिप्रदीपामन्वास्य गोप्ता गृहिणीसहाय: । क्रमेण सुप्तामनु संविवेश सुप्तोत्थितां प्रातरनूदतिष्ठत् ॥२४॥ |
र.व.-२.२५ इत्थं व्रत धारयत: प्रजार्थं समं महिष्या महनीयकीर्ते: ।
सप्त व्यतीयुर्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य ॥२५॥
र.व.-२.२६ अन्येद्युरत्माचरस्य भावं जिज्ञासमाना मुनिहोमधेन: ।
गङ्गाप्रपातान्तविरुढशष्पं गौरीगुरोर्गह्वरमाविवेश ।।२६॥
र.व.-२.२७ सा दुष्प्रधर्षा मनसानि हिंस्रैरित्यद्रिशोभाप्रहितेक्षणेन ।
अलक्षिताभ्युत्पतनो नृपेण प्रसह्म सिंह किल तां चकर्ष ॥२७॥
र.व.-२.२८ तदीयमाक्रन्दितमार्तसाधोर्गुहानिबद्ध्प्रतिशब्ददीर्घम् ।
रश्मिष्विवादाय नगेन्द्रसक्तां निवर्तयामास नृप्स्य दृष्टिम्॥२८॥
र.व.-२.२९ स पाटलयां गवि तस्थिवांसं धनुर्धर: केसरिणं ददर्श ।
अधित्यकायामिव धातुमय्यां लोध्रद्रुमं सनुमत: प्रफ़ुल्लम्॥२९॥
र.व.-२.३० ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्य: ।
जाताभिङ्गो नृपतिर्निषङ्ग्दुद्ध् र्तुमैच्छ्त्प्रसभोद्धरुतारि: ॥३०॥ |
र.व.-२.३१ वामेत्तरस्तस्य कर: प्रहर्तुर्नखप्रभाभूषितक्ङ्कपत्रे ।
सक्तङ्गुलि: सायकपुङ्ख एव चित्रार्पितारम्भ इवाव्तस्थे ॥३१॥
र.व.-२.३२ बाहुप्रतिष्ट्म्भ्विवृद्ध्मन्युरभ्यर्णमागस्कृतमस्पृश्द्धि: ।
राजा स्वतेजोभिरदह्मतान्तर्भोगीव मन्त्रौषधिरुद्धवीर्य: ॥३२॥
र.व.-२.३३ तमार्यगृह्मं निगृहीत्धेनुर्मनुष्यवाचा मनुवंशकेतुम् ।
विस्मापयन्विस्मितमात्मवृत्तौ सिंहोरुसत्त्वंनिजगाद सिंह: ॥३३॥
र.व.-२.३४ अलं महीपाल तव श्रमेणप्रयुक्तमप्यस्त्रमितो वृथा स्यात् ।
न पादपोन्मूलनशक्तिरंह: शिलोच्च्ये मूच्छ्र्ति मरुतस्य ॥३४॥
र.व.-२.३५ कैलासगौरं वृषमारुरुक्षो: पादार्पणानुग्रह्पूतपृष्ठम् ।
अवेहि मां किङ्करमष्टमूर्ते: कुम्भोदर नाम निकुम्भमित्रम् ॥३५॥
र.व.-२.३६ अमुं पुर: पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन ।
यो हेमकुम्भस्तननि: सृतानां स्कन्दस्य मातु: पयसां रसज्ञ: ॥३६॥
र.व.-२.३७ कण्डूयमानेन कतं कदाचिद्वन्यद्विन्यद्विपेनोन्मथिता त्वगस्य ।
अथैन्म्द्रेस्तनया शुशोच सेनान्यमालीढमिवासुरस्त्रै: ॥३७॥
र.व.-२.३८ तदाप्रभृत्येव वनदिपानां त्रासार्थमस्मिन्नह्मद्रिकुक्षौ ।
व्यापारित्:शूलभृता विधाय सिह्त्वमङ्कागतसत्त्वव्रुत्ति:॥३८॥
र.व.-२.३९ तस्यालमेषा क्षुधितस्य तृप्त्यै प्रविष्टकाला परमेश्वरेण ।
उपस्थिता शोणित्पारणा मे सुरद्धिश्चान्द्रमसी सुधेव ॥३९॥
र.व.-२.४० स त्वं निवर्तस्व विहाय लज्जां गुरोर्भवान्दर्शितशिष्यभक्ति:।
शस्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यश: शस्त्रभृतां क्षिणोति ॥४०॥ |
र.व.-२.४१ इत्ति प्रगल्भं पुरुषाधिरजो मृगाधिराजस्य वचो निशम्य ।
प्रत्याहतास्त्रो गिरिशप्रभावादात्मन्यवज्ञां शिथिलीचकर ॥४१॥
र.व.-२.४२ प्रत्यब्रवीच्चैनमिषुप्रयोगे तत्पूर्वभड्गे वितथप्रयत्न: ।
जडीकृतस्त्र्यम्बकवीक्षणेन वज्र मुमुक्षत्रिव वज्रपाणि: ॥४२॥
र.व.-२.४३ संरुद्ध्चेष्टस्य मृगेन्द्र ! कामं हास्यं वचस्तद्यदहं विवक्षु: ।
अन्तर्गतं प्राणभृतां हि वेद सर्वं भवान्भावम्तोऽभिधास्ये॥४३॥
र.व.-२.४४ मान्य: स मे स्थावरजड्गमानां सर्गस्थितिप्रत्यवहारहेतु: ।
गुरोरपीदं धनमाहितग्नेर्नश्यत्पुरस्तादनुपेक्षणीयम् ।।४४॥
र.व.-२.४५ स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्तीयतुं प्रसीद ।
दिनावसानो त्सुकबालवत्सा विसृज्यतां धेनुरियं महर्षे: ॥४५॥
र.व.-२.४६ अथान्धकरं गिरिगह्वराणां दंष्टामयूखै: शकलानि कुर्वन् ।
भूय: स भूतेश्वरपार्श्ववर्ती किञ्चिद्विह्स्यार्थपतिं बभाषे ॥४६॥
र.व.-२.४७ एकातपत्रं जगत: प्रभुत्वं नवं वय: कान्तमिदं वपुश्च् ।
अल्पस्य हेतोर्बहु हातुमिच्छन्विचारमूढ: प्रतिभासि मे त्वम् ॥४७॥
र.व.-२.४८ भूतानुकम्पा तव चेदियं गौरेका भवेत्स्वस्तिमती त्वदन्ते ।
जीवन्पुन: शश्वदुपप्लवेभ्य: प्रजा: प्रजानाथ पितेव पासि॥४८॥ |
र.व.-२.४९ अथैकधेनोरपराधचण्डाद् गुरो: कृशानुप्रति माद्धिभेषि ।
शक्योऽस्य मन्युर्भवता विनेतुं गा: कोटिश: स्पर्शयता घटोध्नी:॥४९॥
र.व.-२.५० तद्रक्ष कल्याणपरम्पराणां भोक्तारमूर्जस्वलमात्मदेहम् ।
महीतलस्पर्शनमात्रभिन्नमृद्धं हि राज्यं पदमैन्द्रमाहु: ॥५०॥
र.व.-२.५१ एतावदुक्त्वा विरते मृगेन्द्रे प्रतिस्वनेनास्य गुहागतेन ।
शिलोच्चयोऽपि क्षितिपालमुच्चै: प्रीत्या तमेवार्थमभाषतेव ॥५१॥
र.व.-२.५२ निशम्य देवानुचरस्य वाचं मनुष्यदेव: पुनरप्युवाच ।
धेन्वा तदध्यासितकातराक्ष्या निरीक्ष्यमाण: सुतरां दयालु: ॥५२॥
र.व.-२.५३ क्षतात्किल त्रायत इत्युदग्र: क्षत्रस्य शब्दो भुवनेषु रूढ: ।
राज्येन किं तद्विपरीतवृत्ते: प्राणैरुपक्रोशमलीमसैर्वा ॥५३॥
र.व.-२.५४ कथं न शक्योऽनुनयो महर्षेर्विश्राणनाच्चान्यपयस्विनीनाम्।
इमामनूनां सुरभेरवेहि रुद्रौजसा तु प्रहृत्यं त्वयाऽस्याम्॥५४॥
र.व.-२.५५ सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुं भवत्त: ।
न पारणा स्याद्विहता तवैवं भवेदलुप्तश्च मुने: क्रियार्थ: ॥५५॥
र.व.-२.५६ भवानपीदं परवानवैति महान्हि यत्नस्तव देवदारौ ।
स्थातुं नियोक्तुर्न हि शक्यमग्रे विनाश्य रक्ष्यं स्वयमक्षतेन ॥५६॥
र.व.-२.५७ किमप्यहिंस्यस्तव चेन्मतोऽहं यश:शरीरे भव मे दयालु: ।
एकान्तविध्वंसिषु मद्विधानां पिण्डेष्वनास्था खलु भौतिकेषु ॥५७॥
र.व.-२.५८ सम्बन्धमाभाषणपूर्वमाहुर्वृत्त: स नौ सङ्गतयोर्वनान्ते ।
तद्भूतनाथानुग नार्हसि त्वं सम्बन्धिनो मे प्रणयं विहन्तुम् ॥५८॥
र.व.-२.५९ तथेति गामुक्तवते दिलीप: सद्य:प्रतिष्टम्भविमुक्तबाहु: ।
स न्यस्तशस्त्रो हरये स्वेदहमुपानयत्पिण्डमिवामिषस्य ॥५९॥
र.व.-२.६० तस्मिन्क्षणे पालयितु: प्रजानामुत्पश्यत: सिंहनिपातमुग्रम् ।
अवाड्मुखस्योपरि पुष्पवृष्टि: पपात विद्याधरहस्तमुक्ता॥६०॥
र.व.-२.६१ उत्तिष्ठ वत्सेत्यमुतायमानं वचो निशम्योत्थितमुत्थित: सन् ।
ददर्श राजा जननीमिव स्वां गामग्रत: प्रस्रवणीं न सिंहम् ॥६१॥
र.व.-२.६२ तं विस्मितं धेनुरुवाच साधो मायां मयोद्धाव्य परीक्षितोऽसि।
ऋषिप्रभवान्मयि नान्तकोऽपि प्रभु: प्रहर्तुं किमुतान्याहिंस्रा:॥६२॥
र.व.-२.६३ भक्तया गुरौ मय्यनुकम्पया च प्रीताऽस्मि ते पुत्र वरं वृणीष्व।
न केवलानां पयसां प्रसूतिमवेहि मां कामदुघां प्रसन्नाम्॥६३॥
र.व.-२.६४ तत: समानीय स मानितार्थी हस्तौ स्वह्स्तार्जितवीरश्अब्द: ।
वंशस्य कर्त्तारमन्अन्तकीर्तिं सुदक्षिणयां तनयं ययाचे ॥६४॥
र.व.-२.६५ सन्तानकामाय तथेति कामं राजे प्रतिश्वुत्य पयस्विनी सा ।
दुग्ध्वा पय: पत्रपुटे मदीयें पुत्रोपभुड्क्ष्वेति तमादिदेश ॥६५॥
र.व.-२.६६ वत्त्सस्य होमार्थी विधेश्व् शेषेरनुज्ञामधिगम्य मात: ।
ओधस्यमिच्छामि तवोपभोक्तुं षष्ठांश्मुर्व्या इवरक्षित्ताया: ।।६६॥
र.व.-२.६७ इत्थं क्षितीशेन वसिष्ठधेनुर्विज्ञापिता प्रीततरा बभूव ।
तदन्विता हैमवताच्च कुक्षे: प्रत्याययावाश्रममश्रमेण॥६७॥
र.व.-२.६८ तस्या: प्रसन्नेन्दुमुख: प्रसादं गुरुर्नृपाणां गुरवे निवेद्य ।
प्रहर्चिह्ननुमितं प्रियायै शशंस वाचा पुनरुक्तयेव ॥६८॥
र.व.-२.६९ स नन्दिनीस्तन्यमनिन्दितात्मा सद्वत्सलो वत्सहुताव्शेष् ।
पपौ वसिष्ठने कृताभ्यनुज्ञ: शुभ्र यशो मूर्तीमवातितृष्ण:॥६९॥
र.व.-२.७० प्रातर्यथोक्तव्रतपाणान्ते प्रास्थानिकं स्वस्त्य्यनं प्रेयुज् ।
तौ दम्पती सवां प्रति राजधानी प्रस्थापयामास वशी वसुष्ठः॥७०॥
र.व.-२.७१ प्रदक्षिणीकृत्य हुतं हुताशमनन्तरं भर्तुररुन्धतीं च ।
धेनुं सवत्सां च नृपः प्रतस्थे सन्मङ्गलोदग्रतरप्रभावः ॥७१॥
र.व.-२.७२ श्रोत्राभिरामध्वनिना रथेन स धर्मपत्नीसहितः सहिष्णुः।
ययावनुद्घातसुखेन मार्गं स्वेनेव पूर्णेन मनोरथेन ॥७२॥
र.व.-२.७३ तमाहितौत्सुक्यमदर्शनेन प्रजाः प्रजार्थव्रतकर्शिताङ्गम् ।
नेत्रैः पपुस्तृप्तिमनाप्नुवद्भिर्नवोदयं नाथमिवौषधीनाम् ॥७३॥
र.व.-२.७४ पुरन्दरश्रीः पुरमुत्पताकं प्रविश्य पौरैरभिनन्द्यमानः ।
भुजे भुजङ्गेन्द्रसमानसारे भूयः स भूमेर्धुरमाससञ्ज ॥७४॥
र.व.-२.७५ अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः सुरसरिदिव तेजो वह्निनिष्ठयूतमैशम् ।
नरपतिकुलभूत्यै गर्भमाधत्त राज्ञी गुरुभिरभिनिविष्टं लोकपालानुभावैः ॥७५॥
महाकविकालिदासकृतौ रघुवंशे महाकाव्ये नन्दिनीवरप्रदानो नाम द्वितीयः सर्गः ॥२॥ इति ॥
mahakavya
ReplyDelete